
पञ्चवक्त्रं महाभीमं त्रिपञ्चनयनैर्युतम् ।
बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् ॥ २॥
पूर्वं तु वानरं वक्त्रं कोटिसूर्यसमप्रभम् ।
दन्ष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम् ॥ ३॥
अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम् ।
अत्युग्रतेजोवपुषं भीषणं भयनाशनम् ॥ ४॥
पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम् ॥
सर्वनागप्रशमनं विषभूतादिकृन्तनम् ॥ ५॥
उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम् ।
पातालसिंहवेतालज्वररोगादिकृन्तनम् ॥ ६॥
ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम् ।
येन वक्त्रेण विप्रेन्द्र तारकाख्यं महासुरम् ॥ ७॥
जघान शरणं तत्स्यात्सर्वशत्रुहरं परम् ।
ध्यात्वा पञ्चमुखं रुद्रं हनुमन्तं दयानिधिम् ॥ ८॥
खड्गं त्रिशूलं खट्वाङ्गं पाशमङ्कुशपर्वतम् ।
मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुम् ॥ ९॥
भिन्दिपालं ज्ञानमुद्रां दशभिर्मुनिपुङ्गवम् ।
एतान्यायुधजालानि धारयन्तं भजाम्यहम् ॥ १०॥
प्रेतासनोपविष्टं तं सर्वाभरणभूषितम् ।
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ ११॥
सर्वाश्चर्यमयं देवं हनुमद्विश्वतोमुखम् ।
पञ्चास्यमच्युतमनेकविचित्रवर्णवक्त्रं
शशाङ्कशिखरं कपिराजवर्यम ।
पीताम्बरादिमुकुटैरूपशोभिताङ्गं
पिङ्गाक्षमाद्यमनिशं मनसा स्मरामि ॥ १२॥
मर्कटेशं महोत्साहं सर्वशत्रुहरं परम् ।
शत्रु संहर मां रक्ष श्रीमन्नापदमुद्धर ॥ १३॥
ॐ हरिमर्कट मर्कट मन्त्रमिदं
परिलिख्यति लिख्यति वामतले ।
यदि नश्यति नश्यति शत्रुकुलं
यदि मुञ्चति मुञ्चति वामलता ॥ १४॥
इदं कवचं पठित्वा तु महाकवचं पठेन्नरः ।
एकवारं जपेत्स्तोत्रं सर्वशत्रुनिवारणम् ॥ १५॥
द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनम् ।
त्रिवारं च पठेन्नित्यं सर्वसम्पत्करं शुभम् ॥ १६॥
चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम् ।
पञ्चवारं पठेन्नित्यं सर्वलोकवशङ्करम् ॥ १७॥
षड्वारं च पठेन्नित्यं सर्वदेववशङ्करम् ।
सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकम् ॥ १८॥
अष्टवारं पठेन्नित्यमिष्टकामार्थसिद्धिदम् ।
नववारं पठेन्नित्यं राजभोगमवाप्नुयात् ॥ १९॥
दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम् ।
रुद्रावृत्तिं पठेन्नित्यं सर्वसिद्धिर्भवेद्ध्रुवम् ॥ २०॥
निर्बलो रोगयुक्तश्च महाव्याध्यादिपीडितः ।
कवचस्मरणेनैव महाबलमवाप्नुयात् ॥ २१॥
॥ इति श्रीसुदर्शनसंहितायां श्रीरामचन्द्रसीताप्रोक्तं
श्रीपञ्चमुखहनुमत्कवचं सम्पूर्णम् ॥
=======================================================================ॐ अस्य श्री पञ्चमुख हनुमन्मन्त्रस्य ब्रह्मा ऋषिः । गायत्री छन्दः । पञ्च मुख विराट् हनुमान्देवता । ह्रीं बीजं । श्रीं शक्तिः । क्रौं कीलकं । क्रूं कवचं । क्रैं अस्त्राय फट् ।
श्री गरुड उवाच ।
अथ ध्यानं प्रवक्ष्यामि श्रृणु सर्वाङ्ग सुन्दरि । यत्कृतं देव देवेन ध्यानं हनुमतः प्रियम् ॥ १॥
पञ्च वक्त्रं महाभीमं त्रिपञ्चनय नैर्युतम् । बाहुभिर्दशभिर्युक्तं सर्व कामार्थ सिद्धिदम् ॥ २॥
पूर्वं तु वानरं वक्त्रं कोटि सूर्य समप्रभम् । दन्ष्ट्रा-कराल वदनं भृकुटी कुटिलेक्षणम् ॥ ३॥
अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम् । अत्युग्रतेजोवपुषं भीषणं भय-नाशनम् ॥ ४॥
पश्चिमं गारुडं वक्त्रं वक्र-तुण्डं महाबलम् । सर्व नाग प्रशमनं विषभूतादि कृन्तनम् ॥ ५॥
उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम् । पाताल सिंह-वेताल ज्वर रोगादि कृन्तनम् ॥ ६॥
ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम् । येन वक्त्रेण विप्रेन्द्र तार काख्यं महासुरम् ॥ ७॥
जघान शरणं तत्स्यात्सर्व शत्रु-हरं परम् । ध्यात्वा पञ्च मुखं रुद्रं हनुमन्तं दया निधिम् ॥ ८॥
खड्गं त्रिशूलं खट्वाङ्गं पाशमङ्कुश पर्वतम् । मुष्टिं कौमोदकीं वृक्षं धार यन्तं कमण्डलुम् ॥ ९॥
भिन्दि पालं ज्ञान मुद्रां दशभिर्मु निपुङ्गवम् । एतान्यायुध जालानि धार यन्तं भजाम्यहम् ॥ १०॥
प्रेता सनो पविष्टं तं सर्वा-भरण भूषितम् । दिव्य माल्याम्बरधरं दिव्य गन्धानु लेपनम् ॥ ११॥
सर्वाश्चर्यमयं देवं हनुमद्विश्वतो-मुखम् । पञ्चास्यमच्युतमनेक विचित्रवर्ण वक्त्रं शशाङ्क शिखरं कपिराज-वर्यम । पीताम्बरादि मुकुटै रूप शोभिताङ्गं पिङ्गाक्षमाद्यमनिशं मनसा स्मरामि ॥ १२॥
मर्कटेशं महोत्साहं सर्व शत्रु हरं परम् । शत्रु संहर मां रक्ष श्रीमन्ना-पदमुद्धर ॥ १३॥
ॐ हरिमर्कट मर्कट मन्त्रमिदं परि लिख्यति लिख्यति वामतले । यदि नश्यति नश्यति शत्रुकुलं यदि मुञ्चति मुञ्चति वामलता ॥ १४॥
ॐ हरि मर्कटाय स्वाहा ।
ॐ नमो भगवते पञ्च वदनाय पूर्व कपि मुखाय सकल शत्रु संहारकाय स्वाहा ।
ॐ नमो भगवते पञ्च वदनाय दक्षिण मुखाय कराल-वदनाय नरसिंहाय सकल भूत प्रमथनाय स्वाहा ।
ॐ नमो भगवते पञ्च वदनाय पश्चिम मुखाय गरुडाननाय सकल विष-हराय स्वाहा ।
ॐ नमो भगवते पञ्च वदनायोत्तर मुखायादिवराहाय सकल सम्पत्कराय स्वाहा ।
ॐ नमो भगवते पञ्च-वदनायोर्ध्व मुखाय हयग्रीवाय सकल जनवशङ्कराय स्वाहा ।
ॐ अस्य श्री पञ्च-मुख हनुमन्मन्त्रस्य श्रीरामचन्द्र ऋषिः । अनुष्टुप्छन्दः । पञ्च मुख वीर हनुमान् देवता ।
हनुमानिति बीजम् । वायुपुत्र इति शक्तिः । अञ्जनी सुत इति कीलकम् ।
श्रीरामदूत हनुमत्प्रसाद सिद्ध्यर्थे जपे विनियोगः ।
इति ऋष्यादिकं विन्यसेत् ।
ॐ अञ्जनी सुताय अङ्गुष्ठाभ्यां नमः । हृदयाय नमः ।
ॐ रुद्र-मूर्तये तर्जनीभ्यां नमः । शिरसे स्वाहा ।
ॐ वायु पुत्राय मध्यमाभ्यां नमः । शिखायै वषट् ।
ॐ अग्नि गर्भाय अनामिकाभ्यां नमः । कवचाय हुम् ।
ॐ राम दूताय कनिष्ठिकाभ्यां नमः । नेत्र त्रयाय वौषट् ।
ॐ पञ्चमुख हनुमते करतलकर पृष्ठाभ्यां नमः । अस्त्राय फट् ।
इति करन्यासः ।
अथ ध्यानम् ।
वन्दे वानर नारसिंह खगराट्क्रोडाश्ववक्त्रान्वितं
दिव्यालङ्करणं त्रिपञ्च नयनं देदीप्यमानं रुचा ।
हस्ताब्जैरसिखेट पुस्तक-सुधा-कुम्भाङ्कुशाद्रिं हलं
खट्वाङ्गं फणिभूरुहं दशभुजं सर्वारिवीरा-पहम् ।
=======================================================================
Shree Panch Mukhi Hanuman Kavach is considered the God of power and strength and is worshipped by millions every Tuesday. Hanuman Kawach if correctly energized by prayer and meditation becomes protective shield, which protects the chanter against evils and perils. It fulfill your dreams.
Shree PanchMukhi Hanuman Kavach
0 Comments